एतयोरचि सुपि यण्न। सुधियौ। सुधिय इत्यादि॥ सुखमिच्छतीति सुखीः। सुतीः। सुख्यौ। सुत्यौ। सुख्युः। सुत्युः। शेषं प्रधीवत्। शम्भुर्हरिवत्। एवं भान्वादयः॥
भ्रूग्रहणेन तदन्तस्य ग्रहणम्(), न केवलस्य। केवलस्य ह्रेकाचो यणादेशप्रापत्यसम्भवादनर्थकं वचनं स्यात्()।
उवङादेशप्रतिषेधार्थत्वान्नानर्थकमिति चत्()? न; एवं हि "वर्षाभ्वश्च"
६।४।८४ इति यणादेशविधानमनर्थकं स्यात्(),
यदि ह्रयं यणादेशस्य प्रतिषेधः स्यात्()--एवं हि तत्? सर्थकं भवति,
नान्यथा? नैतदस्ति; उवङपरतिषेधार्थेऽपि ह्र()स्मस्तन्नियमार्थं स्यात्()। एवं तर्हि यणो यत्रानुवृत्तिस्तस्यैवायं प्रतिषेधो युज्यते। स चानेकाचो विहित इति केवलस्य ग्रहणं न प्राप्नोतीति युक्तमुक्तम्()--भूग्रहणेन तदन्तस्य ग्रहणमिति।
"प्रतिभुवौ, प्रतिभुवः" इति। "भुवः संज्ञान्तरयोः"
३।२।१७९ इति क्विप्()। "सुधियौ" इति। शोभनं ध्यायतीति "अन्येभ्योऽपि दृश्यते"
३।२।१७८ इति क्विप्(), "ध्यायतेः सम्प्रसारणञ्च" (वा।
२९२) इत्युपसंख्यानात्? सम्प्रसारणम्()॥